अमरकोशः


श्लोकः

दूष्या कक्ष्या वरत्रा च कल्पना सज्जना समे । प्रवेण्यास्तरणं वर्ण: परिस्तोमः कुथो द्वयोः ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दूष्या दूष्या स्त्रीलिङ्गः दूष्यतेऽनया । यत् कृत् आकारान्तः
2 कक्ष्या कक्ष्या स्त्रीलिङ्गः कक्षे भवा । यत् तद्धितः आकारान्तः
3 वरत्रा वरत्रा स्त्रीलिङ्गः व्रियतेऽनया । अत्र बाहुलकात् आकारान्तः
4 कल्पना कल्पना स्त्रीलिङ्गः कल्पनम् । युच् कृत् आकारान्तः
5 सज्जना सज्जना स्त्रीलिङ्गः युच् कृत् आकारान्तः
6 प्रवेणी प्रवेणी स्त्रीलिङ्गः प्रकर्षेण दीयतेऽस्याम् । नि उणादिः ईकारान्तः
7 आस्तरण आस्तरणम् नपुंसकलिङ्गः आस्तीर्यते । ल्युट् कृत् अकारान्तः
8 वर्ण वर्णः पुंलिङ्गः व्रियतेऽनेन । उणादिः अकारान्तः
9 परिस्तोम परिस्तोमः पुंलिङ्गः परिस्तूयते । मन् उणादिः अकारान्तः
10 कुथ कुथः पुंलिङ्गः, स्त्रीलिङ्गः कुथ्नाति । अच् कृत् अकारान्तः