अमरकोशः


श्लोकः

स्याद्यशःपटहो ढक्का भेर्यामानकदुन्दुभी । आनक: पटहोऽस्त्री स्यात् कोणो वीणादिवादनम् ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यश:पटह यश:पटहः पुंलिङ्गः यशोऽर्थः पटहः । अकारान्तः
2 ढक्का ढक्का स्त्रीलिङ्गः 'ढक्’ इति कायति । कः कृत् आकारान्तः
3 भेरी भेरी स्त्रीलिङ्गः वे भेर्याः भेर्यामानकदुन्दुभी । रन् उणादिः ईकारान्तः
4 दुन्दुभि दुन्दुभिः पुंलिङ्गः ‘दुन्दु' इति शब्देन भाति । कि बाहुलकात् इकारान्तः
5 आनक आनकः पुंलिङ्गः आनित्यनेन वादितेन । क्वुन् उणादिः अकारान्तः
6 पटह पटहः पुंलिङ्गः, नपुंसकलिङ्गः पटेन हन्यते । कः कृत् अकारान्तः
7 कोण कोणः पुंलिङ्गः वीणादि वाद्यते येन धनुराद्याकृतिना स कोणः । घञ् कृत् अकारान्तः