अमरकोशः


श्लोकः

रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधावकः । पादूकृच्चर्मकारः स्याद् व्योकारो लोहकारकः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रङ्गाजीव रङ्गाजीवः पुंलिङ्गः रङ्गेणाजीवति । कृत् अकारान्तः
2 चित्रकर चित्रकरः पुंलिङ्गः चित्रं करोति । कृत् अकारान्तः
3 शस्त्रमार्ज शस्त्रमार्जः पुंलिङ्गः शस्त्रं मार्ष्टि । अण् कृत् अकारान्तः
4 असिधावक असिधावकः पुंलिङ्गः असिं धावति । अण् कृत् अकारान्तः
5 पादूकृत् पादूकृत् पुंलिङ्गः पद्यतेऽनया । क्विप् कृत् तकारान्तः
6 चर्मकार चर्मकारः पुंलिङ्गः चर्म करोति । अण् कृत् अकारान्तः
7 व्योकार व्योकारः पुंलिङ्गः व्यो करोति । अण् कृत् अकारान्तः
8 लोहकारक लोहकारकः पुंलिङ्गः लोहं करोति । अण् कृत् अकारान्तः