अमरकोशः


श्लोकः

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष: । मुत्प्रीतिः प्रमदो हर्षप्रमोदामोदसंमदाः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धर्म धर्मः पुंलिङ्गः, नपुंसकलिङ्गः धरति विश्वम् । मन् उणादिः अकारान्तः
2 पुण्य पुण्यम् नपुंसकलिङ्गः पुनाति । यत् उणादिः अकारान्तः
3 श्रेयस् श्रेयः नपुंसकलिङ्गः अतिशयेन प्रशस्यम् । ईयसुन् तद्धितः सकारान्तः
4 सुकृत सुकृतम् नपुंसकलिङ्गः सुष्टु कृतम् । तत्पुरुषः समासः अकारान्तः
5 वृष वृषः पुंलिङ्गः वर्षति फलम् । कृत् अकारान्तः
6 मुद् मुद् स्त्रीलिङ्गः मोदनम् । क्विप् कृत् दकारान्तः
7 प्रीति प्रीतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
8 प्रमद प्रमदः पुंलिङ्गः अप् कृत् अकारान्तः
9 हर्ष हर्षः पुंलिङ्गः घञ् कृत् अकारान्तः
10 प्रमोद प्रमोदः पुंलिङ्गः प्रमोदामोदौ घञन्तौ । घञ् कृत् अकारान्तः
11 आमोद आमोदः पुंलिङ्गः प्रमोदामोदौ घञन्तौ । घञ् कृत् अकारान्तः
12 संमद संमदः पुंलिङ्गः अप् कृत् अकारान्तः