अमरकोशः


श्लोकः

नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना । व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नष्टाग्नि नष्टाग्निः पुंलिङ्गः नष्टोऽग्निर्यस्य ॥ बहुव्रीहिः समासः इकारान्तः
2 कुहना कुहना स्त्रीलिङ्गः कुहनम् । युच् कृत् आकारान्तः
3 व्रात्य व्रात्यः पुंलिङ्गः शरीरायासजीवी व्याधादिर्व्रातः । स इव । यत् तद्धितः अकारान्तः
4 अस्वाध्याय अस्वाध्यायः पुंलिङ्गः न स्वाध्यायो वेदाध्ययनमस्य ॥ तत्पुरुषः समासः अकारान्तः
5 निराकृति निराकृतिः पुंलिङ्गः आकृतेरध्ययनचेष्टाया निर्गतः ॥ तत्पुरुषः समासः इकारान्तः