अमरकोशः


श्लोकः

नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् । उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नियम नियमः पुंलिङ्गः यत् कर्म अनित्यं न तु यावज्जीवं कर्तव्यम्, अच् कृत् अकारान्तः
2 उपवीत उपवीतम् नपुंसकलिङ्गः उपवीयते स्म । क्त कृत् अकारान्तः
3 यज्ञसूत्र यज्ञसूत्रम् नपुंसकलिङ्गः यज्ञस्य सूत्रम् तत्पुरुषः समासः अकारान्तः