अमरकोशः


श्लोकः

प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका । स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रबन्धकल्पना प्रबन्धकल्पना स्त्रीलिङ्गः प्रबन्धस्य कल्पना रचना स्तोकसत्या । आकारान्तः
2 कथा कथा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
3 प्रवल्हिका प्रवल्हिका स्त्रीलिङ्गः प्रवल्हते आच्छादयति । क्वुन् उणादिः आकारान्तः
4 प्रहेलिका प्रहेलिका स्त्रीलिङ्गः प्रहेलयति अभिप्रायं सूचयति । ण्वुल् कृत् आकारान्तः
5 स्मृति स्मृतिः स्त्रीलिङ्गः वेदार्थस्मरणपूर्वकं रचितत्वात्स्मृतिः । इकारान्तः
6 धर्मसंहिता धर्मसंहिता स्त्रीलिङ्गः धर्मबोधार्थं रचिता संहिता । क्तः आकारान्तः
7 समाहृति समाहृतिः स्त्रीलिङ्गः समाहरणम् । क्तिन् कृत् इकारान्तः
8 संग्रह सङ्ग्रहः पुंलिङ्गः संग्रहणम् । अप् कृत् अकारान्तः