अमरकोशः


श्लोकः

वरिवसिते वरिवस्यितमुपासितं चोपचरितं च । संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वरिवसित वरिवसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वरिवः कृते क्त कृत् अकारान्तः
2 वरिवस्यित वरिवस्यितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वरिवः कृते क्त कृत् अकारान्तः
3 उपासित उपासितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपास्यते स्म क्त कृत् अकारान्तः
4 उपचरित उपचरितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपचर्यते स्म क्त कृत् अकारान्तः
5 संतापित संतापितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संताप्यते स्म क्त कृत् अकारान्तः
6 संतप्त संतप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तप्यते स्म क्त कृत् अकारान्तः
7 धूपित धूपितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धूप्यते स्म क्त कृत् अकारान्तः
8 धूपायित धूपायितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः धूप्यते स्म क्त कृत् अकारान्तः
9 दून दूनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दूयते स्म क्त कृत् अकारान्तः