अमरकोशः


श्लोकः

राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 राजन्यक राजन्यकम् नपुंसकलिङ्गः राजन्यानां समूहः । वुञ् तद्धितः अकारान्तः
2 मन्त्रिन् मन्त्रिन् पुंलिङ्गः मन्त्रो गुप्तभाषणमस्यास्ति । इनि तद्धितः नकारान्तः
3 धीसचिव धीसचिवः पुंलिङ्गः धिया धियां वा सचिवः सहायः । तत्पुरुषः समासः अकारान्तः
4 अमात्य अमात्यः पुंलिङ्गः अमा सह समीपे वा भवः । त्यप् तद्धितः अकारान्तः
5 कर्मसचिव कर्मसचिवः पुंलिङ्गः कर्मसु सचिवाः सहायाः ॥ तत्पुरुषः समासः अकारान्तः