अमरकोशः


श्लोकः

ओतुर्विडालो मार्जारो वृषदंशक आखुभुक् । त्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ओतु ओतुः पुंलिङ्गः अवति विष्ठाम्, आखुभ्यो गृहम्, वा । तुन् उणादिः उकारान्तः
2 विडाल विडालः पुंलिङ्गः वेडति । कालन् उणादिः अकारान्तः
3 मार्जार मार्जारः पुंलिङ्गः मार्ष्टि मुखम् । आरन् उणादिः अकारान्तः
4 वृषदंशक वृषदंशकः पुंलिङ्गः वृषान् मूषकान् दशति । अण् कृत् अकारान्तः
5 आखुभुज् आखुभुक् पुंलिङ्गः आखून् भुङ्क्ते । क्विप् कृत् जकारान्तः
6 गौधेर गौधेरः पुंलिङ्गः गोधाया अपत्यम् । ढ्रक् तद्धितः अकारान्तः
7 गौधार गौधारः पुंलिङ्गः गोधाया अपत्यम् । आरक् तद्धितः अकारान्तः
8 गौधेय गौधेयः पुंलिङ्गः गोधाया अपत्यम् । ढक् तद्धितः अकारान्तः