अमरकोशः


श्लोकः

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गताऽनिले । पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निर्वाण निर्वाणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्वाति स्म क्त कृत् अकारान्तः
2 निर्वात निर्वातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गतश्चासावनिलश्च क्त कृत् अकारान्तः
3 पक्व पक्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अकारान्तः
4 परिणत परिणतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परिणमति स्म क्त कृत् अकारान्तः
5 गून गूनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गूयते स्म क्त कृत् अकारान्तः
6 हन्न हन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हद्यते स्म क्त कृत् अकारान्तः
7 मीढ मीढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मिह्यते स्म क्त कृत् अकारान्तः
8 मूत्रित मूत्रितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूत्र्यते स्म क्त कृत् अकारान्तः