अमरकोशः


श्लोकः

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्तम्ब स्तम्बः पुंलिङ्गः न प्रकाण्डोऽस्य ॥ अम्बच् उणादिः अकारान्तः
2 गुल्म गुल्मः पुंलिङ्गः गुडति। मन् बाहुलकात् अकारान्तः
3 वल्ली वल्ली स्त्रीलिङ्गः वल्लते । इन् उणादिः ईकारान्तः
4 व्रतति व्रततिः स्त्रीलिङ्गः प्रतनोति । क्तिच् कृत् इकारान्तः
5 लता लता स्त्रीलिङ्गः लतति । अच् कृत् आकारान्तः
6 वीरुध् वीरुध् स्त्रीलिङ्गः क्विप् कृत् धकारान्तः
7 गुल्मिनी गुल्मिनी स्त्रीलिङ्गः गुल्म: प्रतानोऽस्त्यस्याः । इनि तद्धितः ईकारान्तः
8 उलप उलपः पुंलिङ्गः वलति । कप उणादिः अकारान्तः