अमरकोशः


श्लोकः

द्वौ द्वौ मार्गादिमासौ स्यादृतुः तैरयनं त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋतु ऋतुः पुंलिङ्गः इयर्ति, ऋच्छति वा । तु उणादिः उकारान्तः
2 अयन अयनम् नपुंसकलिङ्गः अयतेऽर्कोऽनेन । ल्युट् कृत् अकारान्तः
3 वत्सर वत्सरः पुंलिङ्गः वसन्त्यस्मिन् । सर उणादिः अकारान्तः