अमरकोशः


श्लोकः

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विष्णु विष्णुः पुंलिङ्गः वेवेष्टि । नु उणादिः उकारान्तः
2 नारायण नारायणः पुंलिङ्गः नराणां समूहो नारम् । तदयनं यस्य । बहुव्रीहिः समासः अकारान्तः
3 कृष्ण कृष्णः पुंलिङ्गः कृष्णो वर्णोऽस्यास्तीति । नक् उणादिः अकारान्तः
4 वैकुण्ठ वैकुण्ठः पुंलिङ्गः विकुण्ठाया अपत्यम् । अण् तद्धितः अकारान्तः
5 विष्टरश्रवस् विष्टरश्रवाः पुंलिङ्गः विष्टरे श्रूयते । असुन् उणादिः सकारान्तः
6 दामोदर दामोदरः पुंलिङ्गः दाम उदरे यस्य । बहुव्रीहिः समासः अकारान्तः
7 हृषीकेश हृषीकेशः पुंलिङ्गः हृषीकाणामिन्द्रियाणामीशः । तत्पुरुषः समासः अकारान्तः
8 केशव केशवः पुंलिङ्गः प्रशस्ताः केशाः सन्त्यस्य । कश्च ईशश्च केशौ पुत्रपौत्रौ स्तोऽस्य । बहुव्रीहिः समासः अकारान्तः
9 माधव माधवः पुंलिङ्गः माया लक्ष्म्या धवः । तत्पुरुषः समासः अकारान्तः
10 स्वभू स्वभूः पुंलिङ्गः स्वतो भवति । तत्पुरुषः समासः ऊकारान्तः