अमरकोशः


श्लोकः

वा पुंसि शल्यं शङ्कुर्ना शर्वला तोमरोऽस्त्रियाम् । प्रासस्तु कुन्तः कोणस्तु स्त्रिय: पाल्यश्रिकोटयः ॥ ९३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शल्य शल्यः पुंलिङ्गः, नपुंसकलिङ्गः शलति । उणादिः अकारान्तः
2 शङ्कु शङ्कुः पुंलिङ्गः शङ्कतेऽस्मात् । उणादिः उकारान्तः
3 शर्वरा शर्वरा स्त्रीलिङ्गः शर्वति । कलच् उणादिः आकारान्तः
4 तोमर तोमरः पुंलिङ्गः, नपुंसकलिङ्गः तोश्चासौ मरश्च । तत्पुरुषः समासः अकारान्तः
5 प्रास प्रासः पुंलिङ्गः प्रास्यते । घञ् कृत् अकारान्तः
6 कुन्त कुन्तः पुंलिङ्गः कुं शरीरमुनत्ति । बाहुलकात् अकारान्तः
7 कोण कोणः पुंलिङ्गः कुणत्यनेन घञ् कृत् अकारान्तः
8 पालि पालिः स्त्रीलिङ्गः पालयति । उणादिः इकारान्तः
9 अश्रि अश्रिः स्त्रीलिङ्गः अश्नाति । क्रिन् उणादिः इकारान्तः
10 कोटि कोटिः स्त्रीलिङ्गः कोटयति, कोट्यते, वा । उणादिः इकारान्तः