पालिः

सुधाव्याख्या

पालयति । ‘पाल रक्षणे' (चु० प० से०) । 'अच इः’ (उ० ४.१३९) । मुकुटस्तु पाति । ‘ऋतन्यञ्जि-' (उ० ४.२) इत्यादिनालिः इत्याह । तन्न । तत्र पातेः पाठाभावात् । ‘पालिः’ कर्णलताग्रेऽश्नौ पङ्क्तावङ्कप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोः’ (इति मेदिनी) ॥