कोणः

सुधाव्याख्या

कविति । कुणत्यनेन । 'कुण शब्दे’ (तु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । कर्तर्यच् (३.१.१३४) वा । ‘कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामश्रौ च लगुडेऽपि च' (इति मेदिनी) ॥