शङ्कुः

सुधाव्याख्या

शङ्कतेऽस्मात् । ‘शकि शङ्कायाम्' (भ्वा० आ० से०) । ‘खरुशङ्कुपीयु-’ (उ० १.३६) इति साधुः । ‘शङ्कुः पत्रशिरा जाले संख्याकीलकशम्भुषु । यादोऽस्त्रभेदयोमेंढ्रे’ इति हैमः । ‘संख्याकीलकयोः शङ्कुः शङ्कुः प्रहरणान्तरे’ इति शाश्वतः ॥