शल्यः

सुधाव्याख्या

वेति । शलति । ‘शल गतौ’ (भ्वा० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) यः । ‘शल्यं तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषु तोमरे । मदनद्रुश्वाविधोर्ना’ इति मेदिनी ॥