कोटिः

सुधाव्याख्या

कोटयति, कोट्यते, वा । ‘कुट कौटिल्ये’ (तु० प० से०) । ‘अच इः’ (उ० ४.१३९) । कुट्यते वा । ‘इञ्(ण)जादिभ्यः’ (वा० ३.३.१०८) इतीञ्(ण) 'कोटिः स्त्री धनुषोऽग्रेऽश्रौ संख्याभेदप्र- कर्षयोः’ (इति मेदिनी) ॥