तोमरः

सुधाव्याख्या

तौति । 'तुः’ सौत्रो गतौ । विच् (३.२.७५) म्रियते । 'मृङ् प्राणत्यागे' (तु० आ० अ०) अन्तर्भावितण्यर्थः । अच् (३.१.१३४) तोश्चासौ मरश्च । तौर्गन्ता प्रियतेऽनेन वा । ‘पुंसि-’ (३.३.११८) इति घः ॥


प्रक्रिया

धातुः -


तु सौत्रो धातुः ।
तु + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
तु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तो - सार्वधातुकार्धधातुकयोः 7.3.84
मृङ् प्राणत्यागे
मृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
मृ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
तो + सु + मर + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
तोमर - सुपो धातुप्रातिपदिकयोः 2.4.71
तोमर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तोमर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तोमर + रु - ससजुषो रुः 8.2.66
तोमर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तोमरः - खरवसानयोर्विसर्जनीयः 8.3.15