कुन्तः

सुधाव्याख्या

कुं शरीरमुनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) बाहुलकात्तः । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुन्तः प्रासे चण्डभावे क्षुद्रजातौ गवेधुके कुन्ती पाण्डुप्रियायां च शल्लक्यां गुग्गुलद्रुमे’ इति विश्वः ॥