अश्रिः

सुधाव्याख्या

अश्नाति । ‘अश भोजने’ (क्र्या० प० से०) । अश्नुते वा । 'अशू व्याप्तौ’ (स्वा० आ० से०) । अङ्घ्र्या (वङ्क्र्या) दिः (उ० ४.६६) मुकुटस्तु आश्रीयते प्रहारार्थम्, इति । 'आङि श्रिहनिभ्यां ह्रस्वश्च' (उ० । ४.१३७) इतीण् डिच्च । डित्त्वात् (६.४.१४३) टिलोपः । आङो ह्रस्वश्च'-इत्याह । तन्न । उक्तसूत्रादर्शनात् । 'आश्रि कोणैकदेशयोः’ इति धरणिः । ‘अस्रः कोणे शिरसिजे’ इति विश्वात् ‘अस्रः’ अपि ॥