शर्वरा

सुधाव्याख्या

शेति । शर्वति । ‘शर्व गतौ’ (भ्वा० प० से०) । तालव्यादिः (पवर्गीयान्तः) । वृषादित्वात् (उ० १.१०६) कलच् । ‘शार्दूलशर्वलाशलाटुः’ इति शभेदः । स्वामी तु–‘सर्वं लाति' इति विगृहन् (सर्वलायाः) दन्त्यादितामभिप्रैति ॥