अमरकोशः


श्लोकः

द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः । आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्रोणकाक द्रोणकाकः पुंलिङ्गः द्रोणाख्यः काकः । तत्पुरुषः समासः अकारान्तः
2 काकोल काकोलः पुंलिङ्गः काकयति । ओलच् उणादिः अकारान्तः
3 दात्यूह दात्यूहः पुंलिङ्गः क्तिन् कृत् अकारान्तः
4 कालकण्ठक कालकण्ठकः पुंलिङ्गः काले वर्षाकाले कण्ठो ध्वनिरस्य । बहुव्रीहिः समासः अकारान्तः
5 आतायिन् आतायि पुंलिङ्गः आतायते तच्छीलः । णिनि कृत् नकारान्तः
6 चिल्ल चिल्लः पुंलिङ्गः चिल्लति । अच् कृत् अकारान्तः
7 दाक्षाय्य दाक्षाय्यः पुंलिङ्गः दक्षते । आय्य उणादिः अकारान्तः
8 गृध्र गृध्रः पुंलिङ्गः गृध्यति । क्रन् उणादिः अकारान्तः
9 कीर कीरः पुंलिङ्गः कीरेति । अच् कृत् अकारान्तः
10 शुक शुकः पुंलिङ्गः शोकति । कृत् अकारान्तः