दात्यूहः

सुधाव्याख्या

देति । ‘दाप् लवने’ (अ० प० अ०) । क्तिन् (३.३.९४) । दार्ति मारणमूहृते । ‘ऊह वितर्के’ (भ्वा० आ० से०) । अण् (३.२.१) । यद्वा दित्यौहोऽयम् । ‘तस्येदम्’ । (४.३.१२०) इत्यण् । ‘देविकाशिंशपा-’ (७.३.१) इत्यात्वम् । ‘वाह ऊठ्’ (६.४.१३२) । शकन्ध्वादिः (वा० ६.१९४) । ‘दात्यूहः कालकण्ठके । चातकेऽपि’ इति हैमः ॥