शुकः

सुधाव्याख्या

शोकति । ‘शुक गतौ’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । यद्वा शोभते । शवति वा । ‘शुभ दीप्तौ’ (भ्वा० आ० से०) । ‘शु गतौ’ । वा । ‘शुकवल्कोल्काः’ (उ० ३.४२) इति साधुः । ‘शुको व्याससुते कीरे रावणस्य तु मन्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम्’ (इति मेदिनी) ॥