काकोलः

सुधाव्याख्या

काकयति । ‘कक लौल्ये’ (भ्वा० आ० से०) । स्वार्थण्यन्तः । बाहुलकादोलच् । ‘काकोलं नरकान्तरे, । ना कुलाले द्रोणकाके, विषभेदे तु न स्त्रियाम्’ (इति मेदिनी) ॥ ‘द्रोणकाको दग्धकाको वृद्धकाको वनाश्रयः’ इति त्रिकाण्डशेषः ।