दाक्षाय्यः

सुधाव्याख्या

दाक्षेति । दक्षते । ‘दक्ष वृद्धौ शीघ्रार्थे च’ (भ्वा० आ० से०) । ‘श्रुदक्षिस्पृहिगृहिभ्य आय्यः’ (उ० ३.९६) । दक्षाय्यस्यायम् । अण् (४.३.१२०) ॥


प्रक्रिया

धातुः -


दक्षँ वृद्धौ शीघ्रार्थे च
दक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2
दक्ष् + आय्य - श्रुदक्षिस्पृहिगृहिभ्य आय्यः (३.९६) । उणादिसूत्रम् ।
दक्षाय्य + ङस् + अण् - तस्येदम् 4.3.120
दक्षाय्य + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
दक्षाय्य + अ - हलन्त्यम् 1.3.3
दक्षाय्य् + अ - यस्येति च 6.4.148
दाक्षाय्य - तद्धितेष्वचामादेः 7.2.117
दाक्षाय्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दाक्षाय्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दाक्षाय्य + रु - ससजुषो रुः 8.2.66
दाक्षाय्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दाक्षाय्यः - खरवसानयोर्विसर्जनीयः 8.3.15