द्रोणकाकः

सुधाव्याख्या

द्रोणेति । द्रुणति । ‘द्रुण हिंसागतिकौटिल्येषु’ (तु० प० से०) । अच् (३.१.१३४) । द्रोणाख्यः काकः । ‘द्रोणो ना दग्धकाके स्यादश्वत्थाम्नो गुरावपि’ इति रुद्रः । द्रोणोऽस्त्रियामाढके स्यादाढकानां चतुष्टये । पुमान् कृपीपतौ कृष्णकाके, स्त्री नीवृदन्तरे । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपीष्यते’ इति मेदिनी ॥