आतायि

सुधाव्याख्या

आतेति । आतायते तच्छीलः । ‘तायृ संतानपालनयोः’ (भ्वा० आ० से०) । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः । यद्यप्यत्र वृत्तिकारादिभिः -‘अनुपसर्गे’ –इत्युक्तम् । तथा भाष्ये उपसर्गेऽपि णिनिः स्वीकृतः । स्वामी तु–आतपति–इति विगृह्णन् ‘आतापी’ इति पाठं मन्यते ॥