अमरकोशः


श्लोकः

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्यो द्यौः स्त्रीलिङ्गः द्योतन्तेऽस्यां द्यौः गोवत् । डो उणादिः ओकारान्तः
2 दिव् द्यौः स्त्रीलिङ्गः दीव्यन्त्यस्यामिति । क्विप् कृत् वकारान्तः
3 अभ्र अभ्रम् नपुंसकलिङ्गः न बिभर्ति किंचित् । नञ् समासः अकारान्तः
4 व्योमन् व्योम नपुंसकलिङ्गः व्ययति मनिन् उणादिः नकारान्तः
5 पुष्कर पुष्करम् नपुंसकलिङ्गः पुष्यति । करच् उणादिः अकारान्तः
6 अम्बर अम्बरम् नपुंसकलिङ्गः अम्बः शब्द तं राति । घञ् कदन्तः अकारान्तः
7 नभस् नभः नपुंसकलिङ्गः नह्यते मेघैः । असुन् उणादिः सकारान्तः
8 अन्तरीक्ष अन्तरीक्षम् नपुंसकलिङ्गः द्यावापृथिव्योरन्तरीक्ष्यते । घञ् कृत् अकारान्तः
9 गगन गगनम् नपुंसकलिङ्गः गच्छन्त्यनेनास्मिन्वा । युच् उणादिः अकारान्तः
10 अनन्त अनन्तम् नपुंसकलिङ्गः नास्त्यन्तो यस्य । बहुव्रीहिः समासः अकारान्तः
11 सुरवर्त्मन् सुरवर्त्म नपुंसकलिङ्गः सुराणां वर्त्म । तत्पुरुषः समासः नकारान्तः
12 खम् खम् नपुंसकलिङ्गः खन्यते । कृत् मकारान्तः