द्यौः

सुधाव्याख्या

दीव्यन्त्यस्यामिति । बाहुलकात् (३.३.१) दिवे: (दिवु क्रीडादिषु (दि० प० से०) दिविः । द्यौः, दिवौ, दिवः, द्युभ्याम् । (द्यौः स्वर्गनभसो:') ॥ यत्तु- ‘दिवेड्योः ' इति ड्यो प्रत्ययः-इत्याह मुकुटः । तन्न । उक्तसूत्रस्यादर्शनात् । स्वामी तु-द्योशब्दोऽप्योकारान्तोऽस्ति । भाष्ये (६.१.९३) 'गोतो णित्' (७.१.२०) इत्यत्र 'ओतो णित्' इति पाठान्तराम्नानात् इत्याह । तदपि न । स्मृत उर्येन स स्मृतौरित्यत्र वृद्धिविधानेन पाठस्योपक्षीणत्वात् । यदपि-दिवेः क्विप् (३.२.७६) इत्युक्तम् । तदपि न । दिवौ दिव इत्यादौ ‘च्छ्वोः शूड्-' (६.४.१९) इत्यूठ: प्रसङ्गात् । सुभूतिस्तु-‘द्यु अभिगमने’ द्यूयते अभिगम्यते बाहुलकात्कर्मणि डोप्रत्यय:-इत्याह । ‘द्यौः स्त्री स्वर्गे च गगने दिवं क्लीबं तयोः स्मृतम्' । यत्तु स्वामिना 'दिवशब्दो वृत्तिविषयः' इत्युक्तम् । तदेतेन परास्तम् । उक्तमेदिन्यां वृत्तिविषयत्वानभिधानात् । ‘मन्दर: सैरिभः शक्रभव (सद) नं खं दिवं नभः' इति त्रिकाण्डशेषाच्च ॥