खम्

सुधाव्याख्या

खन्यते । 'खनु अवदारणे ' (भ्वा० उ० से०) । ड: (वा० ३.२.१०१) ।'खं स्वः संविदि व्योमनीन्द्रिये । शून्ये बिन्दौ मुखे खस्तु सूर्ये इति हैमः। खर्वत्यस्मिन् वा । ‘खर्ब गतौ' (भ्वा० प० से०) ड: (वा०३.२.१०१)


प्रक्रिया

धातुः - खनुँ अवदारणे


खन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
खन् ड - अन्येभ्योऽपि दृश्यते (३.२.१०१) । वार्तिकम् ।
खन् अ - चुटू 1.3.7, तस्य लोपः 1.3.9
ख् अ - डित्वसामर्थ्यादभस्यापि टेर्लोपः।
ख + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ख + अम् - अतोऽम् 7.1.24
खम् - अमि पूर्वः 6.1.107