अन्तरीक्षम्

सुधाव्याख्या

द्यावापृथिव्योरन्तरीक्ष्यते । ‘ईक्ष दर्शने’ (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । वेदे तु छान्दसं ह्रस्वत्वम् । अन्तर् ऋक्षा' (णि नक्षत्रा) ण्यस्य । पृषोदरादित्वात् (६.३.१०९) इत्वम् । अस्मिन् पक्षे ‘अन्तरिक्षम्' इति हस्वमध्यः । अधिकरणव्युत्पत्तिस्तु नोचिता । ल्युटा घञो बाधप्रसङ्गात् ।।