व्योम

सुधाव्याख्या

व्ययति । ‘व्येञ् संवरणे' । ‘नामन्सीमन्-’ (उ० ४.१५१) इत्यादिना मन्नन्तं निपातितम् । यद्वा व्यवति । विपूर्वादवतेर्मनिन् (३.२.७५) । ‘ज्वरत्वर-(६.४.२०) इत्यूठौ । सवर्णदीर्घः (६.१.१०१) । ‘सार्वधातुका- ७.३.८४) इति गुणः । ('व्योम वारिणि चाकाशे 'भास्करस्यार्चनाश्रये') ॥