पुष्करम्

सुधाव्याख्या

पुष्यति । ‘पुष पुष्टौ' (दि० प० अ०) । ‘पुषः कित्' (उ० ४.४) इति करच् कित्त्वं च । पुष्कं वारि राति इति स्वामी ।'पुष्करं गगनपद्मवारिषु' । (‘पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे')