अभ्रम्

सुधाव्याख्या

न बिभर्ति किंचित् । मूलविभुजादित्वात् (वा० ३.२.५) कः । यद्वा आपो भ्रश्यन्त्यस्मात् । अन्येभ्योऽपि' (वा० ३.२.१०१) इति ड: । यद्वा – अभ्रति । स्थैर्यं गच्छति । अच् (३.१.१३४)। अभ्र वभ्र मभ्र चर गत्यर्था: । (भ्वा० प० से०) । यद्वा-न भ्राजते । ‘भ्राजृ दीप्तौ (भ्वा०प० से०) अन्येभ्योऽपि-’ (३.२.१०१) इति ड: । अभ्रं मेघे च गगने धातुभेदे च काञ्चने' ॥