अम्बरम्

सुधाव्याख्या

‘अबि शब्दे' (भ्वा० आ० से०) । भावे घञ् (३.३.१८) । अम्बः शब्द तं राति । अम्बरम् । (‘अम्बरं न द्वयोर्व्योम्नि सुगन्ध्यन्तरवस्त्रयोः')


प्रक्रिया

धातुः - अबिँ शब्दे , रा दाने


अब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्ब् - इदितो नुम् धातोः 7.1.58
अंब् - नश्चापदान्तस्य झलि 8.3.24
अम्ब् - अनुस्वारस्य ययि परसवर्णः 8.4.58
अम्ब् घञ् - भावे 3.3.18
अम्ब् अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रा दाने
अम्ब अम् रा - अन्येष्वपि दृश्यते 3.2.101
अम्ब रा ड - सुपो धातुप्रातिपदिकयोः 2.4.71
अम्ब रा अ - चुटू 1.3.7, तस्य लोपः 1.3.9
अम्ब र् अ - आतो लोप इटि च 6.4.64
अम्बर सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अम्बर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अम्बर + अम् - अतोऽम् 7.1.24
अम्बरम् - अमि पूर्वः 6.1.107