नभः

सुधाव्याख्या

नह्यते मेघैः । ‘णह बन्धने’ (दि० उ० अ०)। ‘नहेर्दिवि भश्च (उ० ४.२११) इत्यसुन् भश्चान्तादेशः । न बभस्तीति वा क्विप् । (३.२.१७८) नभते । ‘णभ हिंसायाम्' (भ्वा० आ० से०) असुन् (उ० ४.१८९) । सान्तम् । नभः क्लीबं व्योम्नि पुमान् घने । घ्राणश्रावणवर्षासु बिसतन्तौ पतद्ग्रहे' । 'नभोव्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे' । घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः इति विश्वः । ‘अत्यविचमितमि (उ०३.११७) इत्यसच् प्रत्यये तु नभसमदन्तमपि । नभसः पुंसि इत्युणादिवृत्तौ । (नभसस्तु नदीपतौ । गगने प्रावृषि')