शिशुः

सुधाव्याख्या

श्यति, शायते, वा । ‘शो तनूकरणे’ (दि० प० अ०) । ‘शः कित् सन्वच्च’ (उ० १.२०) इत्युः सन्वद्भावाद्द्वित्वेत्वे । शशति प्लुतेन गच्छति । ‘शश प्लुतगतौ’ (भ्वा० प० से०) । ‘शशिरपोरत इः’ इति कुः)-इति मुकुटश्चिन्त्यः । उज्ज्वलदत्तादिषु ‘शशिरपोरतः’ इति सूत्रादर्शनात् ॥