युगलम्

सुधाव्याख्या

वृषादित्वात् (उ० १.१०६) कलच् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । युगं लाति वा । युगमस्त्यस्य वा । सिध्मादित्वात् (५.२.९७) लच् ॥


प्रक्रिया

धातुः -


युजिँर् योगे
युज् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
युज् + कल - वृषादिभ्यश्चित् (१.१०६) ।
युज् + अल - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
युग् + अल - न्यङ्क्वादीनां च 7.3.53
युगल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
युगल + अम् - अतोऽम् 7.1.24
युगलम् - अमि पूर्वः 6.1.107