मिथुनम्

सुधाव्याख्या

मेथति । ‘मिथृ मेथृ संगमे’ (भ्वा० उ० से०) । ‘क्षुधिपिशिमिथिभ्यः कित्’ (उ० ३.५५) इत्युनन् । बाहुलकाद्गुणाभावः-इति मुकुटस्तु एतत्सूत्राज्ञानमूलकः । ‘मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


मिथृँ मेधाहिंसनयोः
मिथ् - उपदेशेऽजनुनासिक इत् 1.3.2
मिथ् + उनन् - क्षुधिपिशिमिथिभ्यः कित् (३.५५) । उणादिसूत्रम् ।
मिथ् + उन - हलन्त्यम् 1.3.3
मिथुन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मिथुन + अम् - अतोऽम् 7.1.24
मिथुन - अमि पूर्वः 6.1.107