अर्भकः

सुधाव्याख्या

अर्यते वृद्धिं प्राप्यते । ‘ऋ गतौ प्रापणेऽपि च’ (भ्वा० प० से०) । ‘अर्भकपृथुकपाका वयसि’ (उ० ५.५३) इति साधुः । मुकुटस्तु–सदैव इयर्ति चलति, वृद्धिं गच्छति वा । ‘अर्तिगॄभ्यां भः’ (उ० ३.१५२) । ततः स्वार्थे कन् (५.३.७५)—इति व्याख्यत् । तन्न । ‘अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च’ (इति मेदिनी) इत्यत्र बालभिन्नेऽर्थे सावकाशस्यास्य वयसि ‘अर्भक’ (उ० ५.५३) इत्यनेन बाधनात् ॥