पोतः

सुधाव्याख्या

पोत इति । पुनाति, पवते वा । ‘पूञ् पवने’ (क्र्या० उ० से०) । ‘पूङ् पवने’ (भ्वा० आ० से०) वा । ‘हसिमृग्रिण्-’ (उ० ३.८६) इति तन् । स्त्रियाम् ‘पोती’ । ‘वयसि प्रथमे’ (४.१.२०) इति ङीप् । ‘पोतः शिशौ वहित्रे च गृहस्थाने च वाससि’ इति मदिनी ॥