पाकः

सुधाव्याख्या

पायते । पिबति वा । ‘पा रक्षणे’ (अ० प० अ०) । ‘पा पाने’ (भ्वा० प० अ०) । वा । ‘अर्भकपृथुकपाका वयसि’ (उ० ५.५३) इति साधुः । स्त्रियाम् अजादित्वात् (४.१.४) टाप् । मुकुटस्तु– ‘इण्भीका-’ (उ० ३.४३) इति कन् । पच्यते परिणम्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञि वा इत्याह । तन्न । अवयसि चरितार्थयोरनयोर्वयसि ‘अर्भक-’ (उ० ५.५३) इत्यनेन बाधनात् । ‘पाकः परिणतौ शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च’ (इति मेदिनी) । इत्येतेष्वर्थेषु शिशुभिन्नेषु मुकुटव्याख्या युक्ता । शिशौ त्वस्मदीया-इति ध्येयम् ॥