युगम्

सुधाव्याख्या

युज्यते । घञ् (३.३.१९) । कुत्वम् (७.३.६२) । संज्ञापूर्वकत्वात्- ‘रथयुगप्रासङ्गम्’ (४.४.७६) इति लिङ्गाद्वा गुणाभावः । ‘युगो रथहलाद्यङ्गे न द्वयोस्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च’ (इति मेदिनी) ॥