अमरकोशः


श्लोकः

पाषाणप्रस्तरग्रावोपलाश्मान: शिला दृषत् । कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भगः ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पाषाण पाषाणः पुंलिङ्गः पषत्यनेन । आन्च् उणादिः अकारान्तः
2 प्रस्तर प्रस्तरः पुंलिङ्गः प्रस्तृणाति । अच् कृत् अकारान्तः
3 ग्रावन् ग्रावा पुंलिङ्गः गिरति, गृणाति वा । वनिप् कृत् नकारान्तः
4 उपल उपलः पुंलिङ्गः उप लाति । कृत् अकारान्तः
5 अश्मन् अश्मा पुंलिङ्गः अश्नुते । मनिन् कृत् नकारान्तः
6 शिला शिला स्त्रीलिङ्गः शिलति । कृत् आकारान्तः
7 दृषद् दृषद् स्त्रीलिङ्गः दृणाति । अदि उणादिः दकारान्तः
8 कुट कुटः पुंलिङ्गः, नपुंसकलिङ्गः कूटयति । अच् कृत् अकारान्तः
9 शिखर शिखरम् नपुंसकलिङ्गः शिखाऽस्यास्ति । कृत् अकारान्तः
10 शृङ्ग शृङ्गम् नपुंसकलिङ्गः शृणाति । गन् उणादिः अकारान्तः
11 प्रपात प्रपातः पुंलिङ्गः प्रपतन्त्यस्मात् । घञ् कृत् अकारान्तः
12 अतट अतटः पुंलिङ्गः न तटमत्र । तत्पुरुषः समासः अकारान्तः
13 भृगु भृगुः पुंलिङ्गः भृज्जति भृज्ज्यते वा । कु उणादिः उकारान्तः