ग्रावा

सुधाव्याख्या

गिरति, गृणाति वा । 'गृ निगरणे’ (तु० प० से०) ‘शब्दे (क्र्या० प० से०) वा । अन्येभ्योऽपि’ (३.२.७५) इति वनिप् । पृषोदरादिः (६.३.१०९) । यद्वा गरति । 'गृ सेके (भ्वा० प० अ०) । मूलविभुजादिः (वा० ३.२.५) । अवति । अव रक्षणादौ’ (भ्वा० प० से०) । बाहुलकात्कनिः । ग्रश्चासाववा च । 'ग्रावा तु प्रस्तरे पृथ्वीधरे पुंसि' इति मेदिनी ।