कूटः

सुधाव्याख्या

कूट इति । कूटयति । ‘कूट दाहे’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । यत्तु-इगुपध-' (३.१.१३५) इति क: इति मुकुटः । तन्न । कूटेश्चुरादित्वेन णिजन्तत्वादिगुपधत्वासम्भवात् । णिजभावे वा । कूट्यते वा घञ् (३.३.१४) । कूटं पूर्द्वारयन्त्रयोः । मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोधने राशौ' इति हैमः ॥